Atha Tripursundarisatotram अथ त्रिपुरसुन्दरीस्तोत्रम्
ॐ श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम्।
ध्यात्वा वाग्देवतां वन्दे देवीं त्रिपुरसुन्दरीम्। 1 ।
सर्वलोकप्रियकरीं सर्वलोकेषु संस्थिताम्।
सर्वेश्वर्यप्रदां वन्दे देवी त्रिपुरसुन्दरीम्। 2।
पद्मालयाँ पद्मपीठां पद्मासेवितपत्कजाम्।
पद्मरागनिभां वन्दे देवीं त्रिपुरसुन्दरीम्। 3
पञ्चबाण –धनुर्बाणन्पाशाङक्त्शधामिमाम्।
पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् । 4 ।
हृत्पुण्डरीकनिलयां षडास्यजननीमिमाम्।
षट्कोणेषु स्थितां वन्दे देवीं त्रिपुरसुन्दरीम्। 5।
अष्टैश्वर्यमयाकारामष्टबाहुयुतायुधाम् ।
अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् । 6 ।
नवमाणिक्यमुकुटां नवमाणिक्यसेविताम् ।
नवयौवनगां वन्दे देवीं त्रिपुरसुन्दरीम् । 7 ।
काञ्चीधाममनोरम्यां काञ्चीधामविभूषिताम् ।
काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् । 8 ।
हरार्धभागनिलयामम्बाभिष्टार्थ-दायिनीम् ।
हरप्रियां निजां वन्दे देवीं त्रिपुरसुन्दरीम् ।।
।। त्रिपुरसुन्दरीस्तोत्रम ।।