Shiv Mahima Stotram अथ श्री शिव महिम्नः स्तोत्रम्

Shiv Mahima Stotram  अथ श्री शिव महिम्नः स्तोत्रम्

श्लोक

महिम्नः पारंते परमविदुषो यद्यसदृशी, स्तुतिब्र्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।

अथावाच्यः सर्वः स्वमति परिणामावधि गृणन्,  ममाप्येषः स्तोत्रो हर निरपवादः परिकरः ।। 1।।

पदच्छेद

महिम्नः पारं ते परम् अविदुषः यदि असदृशी, स्तुतिः ब्रह्मा आदीनाम् अपि तत् अवसन्नाः त्वयि गिरः।

अथ अवाच्यः सर्वः स्वमति परिणाम अवधि गृणन्, मम अपि एषः स्तोत्रो हर ! निर् अपवादः परिकरः ।। 1।।

श्लोक २.

अतीतः पन्थानं तव च महिमा वाङ्गनसयो- रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः, पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। 2।।

पदच्छेद

अतीतः पन्थानं तव च महिमा वाङ् मनसयोः, अतत् व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिः अपि।

सः कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः, पदे तु अर्वाचीने पतति न मनः कस्य न वचः ।। 2।।

श्लोक ३.

मधुस्फीता वाचः परमममृतं निर्मितवत, स्तव ब्रह्यन् किं वागपि सुरगुरोर्विस्मयपदम्।

ममत्वेतां वाणीं गुणकथन पुण्येन भवतः, पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिव्र्यवसिता ।। 3।।

पदच्छेद

मधु स्फीता वाचः परमं अमृतं निर्मित वतः,          तव ब्रह्यन् ! किं वाक् अपि सुर गुरोः र्विस्मय पदम्।

मम तु एताम् वाणीं गुण-कथन-पुण्येन भवतः, पुनामि इति अर्थे अस्मिन् पुरमथन ! बुद्धिः व्यवसिता ।। 3।।

श्लोक ४.

तवैश्वर्यं यत् तज्जगदुदय रक्षा प्रलयकृत्, त्रायी वस्तु व्यस्तं त्रिसृषुगुण भिन्नासु तनुषु।

अभव्यानामस्मिन् वरद रमणीयामरमणीम्, विहन्तुं व्याक्रोशीं विदधत इहै के जडधियः।। 4।।

पदच्छेद

तव ऐश्वर्यं यत् तत् जगत् उदय रक्षा प्रलय कृत्, त्रायी वस्तु व्यस्तं त्रिसृषु गुण भिन्नासु तनुषु।

अभव्यानाम् अस्मिन् वरद ! रमणीयाम् अरमणीम्, विहन्तुं वि-आक्रोशीम् विदधते इह एके जडधियः।। 4।।

श्लोक ५.

किमीहः किं कायः स खलु किमुपायस्त्रिाभुवनम्। किमाधारो धाता सृजति किमुपादान इति च।

अतकर््यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः,        कुतर्को×यं कांश्चिन्मुखरयति मोहाय जगतः ।। 5।।

पदच्छेद

किं ईहः कि कायः स खलु किं उपायः त्रिभुवनम्। किं आधारः धाता सृजति किं उपादान इति च।

अतकर््य ऐश्वर्ये त्वयि अनवसर दुःस्थः हत धियः, कुतर्कः अयं कांश्चित् मुखरयति मोहाय जगतः ।। 5५।।

श्लोक ६.

अजन्मानो लोकाः किमवयववन्तोऽपि जगता, मधिष्ठातारं किं भवविधिरनादृत्य भवति।

अनीशो वा कुर्याद् भुवनजनने कः परिकरं, यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।। 6।।

पदच्छेद

अजन्मानः लोकाः किम् अवयव वन्तः अपि जगताम्, अधिष्ठातारं किं भव-विधिः अनादृत्य भवति।

अनीशः वा कुर्यात् भुवन-जनने कः परिकरम्, यतः मन्दाः त्वाम् प्रति अमरवर ! संशेरते इमै।। 6।।

श्लोक ७.

त्रायी सांख्यं योगः पशुपतिमतं वैष्णवमिति,           प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।

रुचीनां वैचित्रयादृजुकुटिलनानापथजुषां,      नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। 7।।

पदच्छेद

त्रायी सांख्यं योगः पशुपति मतं वैष्णवं इति, प्रभिन्ने प्रस्थाने परं इदम् अदः पथ्यं इति च।

रुचीनां वैचित्रयात् ऋजु कुटिल नाना पथ जुषाम्, नृणाम् एक गम्यः त्वं असि पयसाम् अर्णव इव ।। 7।।

श्लोक ८.

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः, कपालं चेतीयत्तव वरद ! तन्त्रोपकरणम्।

सुरास्तां तामृद्धिं दधति तु भवद् भ्रू प्रणिहितां, न हि स्वात्मारामं विषय मृगतृष्णा भ्रमयति ।। 8।।

पदच्छेद

महा उक्षः खटु अङ्गं परशु अजिनं भस्म फणिनः, कपालं च इति इयत् तव वरद ! तन्त्रा उपकरणम्।

सुराः तां ताम् ऋद्धिं दधति तु भवत्-भ्रू-प्रणिहिताम्, न हि स्व-आत्मा-आरामं विषय-मृग-तृष्णा भ्रमयति ।। 8।।

श्लोक  ९.

ध्रुवं कश्चित् सर्वं सकलमपरस्त्व धु्रवंमिदम्, परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये।

समस्तेऽप्येतस्मिन् पुरमथन ! तेर्विस्मित इव, स्तुवन् जिह्रेमि त्वां न खलु, ननु धृष्टा मुखरता ।। 9९।।

पदच्छेद

ध्रुवं कश्चित् सर्वं सकलम् अपरः तु अधु्रवम् इदम्, परः ध्रौव्य-अध्रौव्ये जगति गदति व्यस्त विषये।

समस्ते अपि एतस्मिन् पुरमथन ! तैः विस्मित इव, स्तुवन् जिहेमि त्वां न खलु, ननु धृष्टा मुखरता ।। 9९।।

श्लोक १॰.

तवैश्वर्यं यत्नाद् यदुपरि विरि´्चिर्हरिरधः, परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः।

ततो भक्ति श्रद्धा भरगुरु गृणद्भ्यां गिरिश यत्, स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलाति ।।१10।।

पदच्छेद

तव ऐश्वर्यं यत्नात् यत् उपरि विरिंचिः हरिः अधः, परिच्छेत्तुं यातौ अनलम् अनल-स्कन्ध-वपुषः।

ततो भक्ति-श्रद्धा भर-गुरु-गृणद्भ्यां गिरिश यत्,               स्वयं तस्थे ताभ्यां तव किम् अनुवृत्तिः न फलाति ।।10।।

श्लोक ११

अयत्नादासाद्य त्रिभुवनमवैर व्यतिकरं, दशास्यो यद्बाहूनभूत रणकण्डूपरवशानू।

शिरः पù श्रेणी रचित चरणाम्भोरुहबलेः,    स्थिरायस्त्वद् भक्तेस्त्रिापुरहर ! विस्फूर्जितमिदम्।। १11१।।

पदच्छेद

अयत्नात् आसाद्य त्रिभुवनम्-अवैर व्यतिकरम्, दश-आस्यः यत् बाहून अभृत रणकण्डूपरवशान्।

शिरः पù-श्रेणी रचित चरण अम्भोरुहबलेः, स्थिरायाः त्वत् भक्तेत्रिपुर-हर ! विस्फूर्जितम् इदम्।। 11११।।

श्लोक १२.

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं, बलात् कैलासेऽपित्वदधिवसतौ विक्रमयतः।

अलभ्यापाताले ऽप्यलसचलिताङ्बुष्ठ शिरसि, प्रतिष्ठा त्वय्यासीद् धु्रवमुपचितो मुह्मति खलः ।। १12२।।

पदच्छेद

अमुष्य त्वत् सेवा सम् अधिगत सारं भुजं-वनं, बलात् कैलासे अपि त्वत् अधिवसतौ विक्रमयतः।

अलभ्या पाताले अपि अलस चलित अङ्गुष्ठ शिरसि, प्रतिष्ठा त्वयि आसीत् धु्रवम् उपचितः मुह्यति खलः ।। 12१२।।

श्लोक १३.

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं,  मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।

न तच्च्त्रिां तस्मिन् वरिवसितरि त्वच्चरणयो,  न कस्या प्युन्नत्यै भवति शिरसस्त्वय्यवनति ।। १13३।।

पदच्छेद

यत् ऋद्धिं सुत्राम्णः वरद ! परम उच्चैः अपि सतीम्, अधः चक्रे बाणः परिजनविधेय त्रिभुवनः।

न तत् चित्रां तस्मिन् वरिवसितरि त्वत् चरणयोः, न कस्य अपि उन्नत्यै भवति शिरसः त्वयि अवनति ।। १13३।।

श्लोक १४.

अकाण्ड ब्रह्माण्डक्षयचकितदेवासुरकृपा-   विधेयस्यासीद् यस्त्रिानयनविषं संहृतवतः।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो, विकारोऽपि श्लाघ्यो भुवन-भय-भंग-व्यसनिनः ।। 14१४।।

पदच्छेद

अकाण्ड ब्रह्माण्ड क्षय चकित देव असुर कृपा-विधेयस्य असीत् यः त्रिनयन ! विषं संहृतवतः।

स कल्माषः कण्ठे तव न कुरुते न श्रियं अहो, विकारः अपि श्लाघ्यः भुवन-भय-भंग-व्यसनिनः ।। १14४।।

श्लोक १५.

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे, निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।

स पश्यन्नीश त्वामितर सुर साधारणमभूत, स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ।। १15५।।

पदच्छेद

असिद्ध अर्थाः न एव क्वचित् अपि स-देव-असुर-नरे, निवर्तन्ते नित्यं जगति जयिनः यस्य विशिखाः।

स पश्यन् ईश  त्वाम् इतर-सुर-साधारणं अभूत्, स्मरः स्मर्तव्य आत्मा नहि वशिषु पथ्यः परिभवः ।ं15।।

श्लोक १६.

मही पादाघाताद् व्रजति सहसा संशयपदम्, पदं विषणोभ्र्राम्य०ुजपरिघरुग्वाग्रहगणम्।

मुहुद्यौर्दौस्थ्यं यात्यनिभृत जटा ताडित तटा, जग०क्षायै त्वं नटसि ननु वामैव विभुता ।। 16।।

पदच्छेद

मही पाद आघातात् व्रजति सहसा संशय-पदम्, पदं विषणोः भ्राम्यत् भुज-परिघ-रुग्ण-ग्रह-गणम्।

मुहुः द्यौः र्दौस्थ्यं याति अनिभृत-जटा-ताडित-तटा, जगत्-रक्षायै त्वं नटसि ननु वाम एव विभुता ।। 16 ।।ööööö

श्लोक १७

वियत्-व्यापीतारागण गुणित फेनोद्गममरुचिः, प्रवाहो वाराम् यः पृषतलधुदृष्टः शिरसि ते।

जगद् द्वीपाकारं जलधि वलयं तेन कृतम्,  इत्यनेनैवोत्रोयं धृतमहिम दिव्यं तव वपुः ।। 17७।।

पदच्छेद

वियत्-व्यापी-तारा-गण-गुणित-फेन उद्गम रुचिः, प्रवाहः वाराम् यः पृषतलधुदृष्टः शिरसि ते।

जगत् द्वीप आकारं जलधि-वलयं तेन कृतम्, इति अनेन एव उन्नेयं धृतमहिम दिव्यं तव वपुः ।। 17।।

श्लोक १८.

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो, रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि, र्विधेयैः क्रीडन्त्यो न खलु परतन्त्रा प्रभुधियः ।। 18।।

पदच्छेद

रथः क्षोणी यन्ता शतधृतिः अगन्द्रो धनुः अथो, रथ-अङ्गे चन्द्र-अर्कौ रथ चरण-पाणिः शरः इति।

दिधक्षोः ते कः अयं त्रिपुर तृणम् आडम्बरविधि, विधेयैः क्रीडन्त्यः न खलु पर-तन्त्रा प्रभु-धियः ।। 18।।

श्लोक १९.

हरिस्ते साहस्त्रां कमलबलिमाधाय पदयो-र्यदेकोने तस्मिन् निजमुदहरन्नेकमलम्।

गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा, त्रायाणाम् रक्षायै त्रिपुरहर ! जागर्ति जगताम् ।। 19।।

पदच्छेद

हरिः ते साहस्त्रां कमल-बलिम् आधाय पदयोः यत् एक ऊनेे तस्मिन् निजम् उदहरत् नेत्रा कमलम्।

गतः भक्ति उद्रेकः परिणतिम् असौ चक्र-वपुषा, त्रायाणाम् रक्षायै त्रिपुर-हर ! जागर्ति जगताम् ।। 19।।

श्लोक 20

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम्, क्व कर्म प्रध्वस्तं फलति पुरुषाराधनम् ऋते।

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवम्, श्रुतौ श्रद्धाम् बद्ध्वा दृढ़परिकरः कर्मसु जनः ।। 20।।

पदच्छेद

क्रतौ सुप्ते जाग्रत त्वं असि फल-योगे क्रतुमताम्, क्व कर्म प्रध्वस्तम् फलति पुरुष आराधनम् ऋते।

अतः त्वां सम्प्रेक्ष्य क्रतुषु फल-दान प्रतिभुवं, श्रुतौ श्रद्धां बद्ध्वा दृढ़-परिकरः कर्मसु जनः ।। 20।।

 

श्लोक २21१.

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-मृषीणामात्र्विज्यं शरणद सदस्याः सुरगणाः।

क्रतु भ्रंषस्त्वत्तः क्रतुफलविधान व्यसनिनो,              धु्रवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ।। 21।।

पदच्छेद

क्रिया-दक्षः दक्षः क्रतु-पतिः अधीशः तनुभृताम्-ऋषीणाम् आत्र्विज्यं शरणद ! सदस्याः सुरगणाः।

क्रतु-भ्रंशः त्वत्तः क्रतु-फल-विधान-व्यसनिनो, ध्रुवं कर्तुः श्रद्धा-विधुरम् अभिचाराय हि मखाः ।। 21।।

श्लोक २२.

प्रजानाथं नाथ प्रसभमभिक स्वां दुहितरं, गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुम्, त्रासन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ।। 22।।

पदच्छेद

प्रजा-नाथं नाथ ! प्रसभम् अभिकं स्वां दुहितरं, गतं रोहित् भूतां रिरमयिषुम् ऋष्यस्य वपुषा।

धनुः पाणेः यातं दिवम् अपि सपत्राकृतम अमुम्, त्रासन्तं त अद्य अपि त्यजति न मृग व्याध रभसः ।। 22।।

श्लोक २३.

अपूर्वं लावण्यं विवसनतनोस्ते विमृशताम्,              मुनीनां दाराणां समजनि सकोपव्यतिकरः।

यतो भग्ने गुह्ये सकृदपिसपर्यां विदधताम्,            ध्रुवं मोक्षोऽश्लील किमपि पुरुषार्थं प्रसविते ।। 24।।

पदच्छेद

अपूर्वं लावणयम् विवसन तनोः ते विमृशताम्, मुनीनां दाराणां समजनि सकोप व्यतिकरः।

यतः भग्ने गह्ये सकृत् अपि सपर्यां विदधताम्,  धु्रवं मोक्षः अश्लीलं किम् अपि पुरुषार्थं प्रसविते ।। 24।।

श्लोक २४.

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्, पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।

यदि स्त्रौणं देवी यमनिरत देहार्धघटनात्, अवैति त्वामद्धा बत वरद मुग्धा-युवतयः ।। 25।।

पदच्छेद

स्वलावण्या आशँसा धृत धनुषम् अहनाय तृणवत्, पुरः प्लुष्टं दृष्ट्वा पुरमथन ! पुष्प आयुधम अपि।

यदि स्त्रौणं देवी यम निरत देह अर्ध घटनात्, अवैति त्वां अद्धा बत वरद मुग्धा-युवतयः ।। 25।।

श्लोक २४

श्मशानेष्वाक्रीड़ा स्मरहर पिशाचाः सहचरा-श्चिताभस्मालेपः स्रगपि नृकरोटी परिकरः।

अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मर्तृणां वरद परमं मङ्गलमसि ।। 27।।

पदच्छेद

श्मशानेषु आक्रीड़ा स्मरहर ! पिशाचाः सहचराः चिता भस्म आलेपः स्रक् अपि नृकरोटी परिकरः।

अमङ्गल्यं शीलं तव भवतु नाम एवम् अखिलम् तथा अपि स्मर्तृणां वरद ! परमं मङ्गलं असि ।। 27।।

श्लोक २६.

मनः प्रत्यक्चित्तं सविधमवधायात्तमरुतः, प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।

यदालोक्याह्लादं Ðद इव निमज्ज्यामृतमये, दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ।। 28।।

पदच्छेद

मनः प्रत्यक् चित्तं सविधम् अवधाय आत्त-मरुतः, प्रहृष्यत् रोमाणः प्रमद सलिल उत्सङ्गित दृशः ।

यत् आलोक्य आह्लादं Ðद इव निमज्ज्य आमृतमये, दधति अन्तः तत्त्वं किम् अपि यमिनः तत् किल भवान् ।। 28।।

श्लोक २७.

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह,            स्त्वमापस्त्वं व्योगत्वमु धरणिरात्मा त्वमिति च।

परिच्छिन्नामेवं त्वयि परिणताः बिभ्रति गिरम्, न विद्यस्तत्तत्वं वयमहि तु यत्त्वं न भवसि ।। 29।।

 

पदच्छेद

त्वम् अर्कः त्वम्  सोमः त्वम् असि पवनः त्वं हुतवहः, त्वम् आपः त्वम् व्योम त्वमु धरणिः आत्मा त्वं इति च।

परिच्छिन्नाम् एवं त्वयि परिणताः बिभ्रति गिरम्,  न विः तत्तत्वं वयं इह तु यत् त्वं न भवसि ।। 29।।

श्लोक २८.

त्रायीं तिस्रो वृत्तीस्त्रिाभुवनमथो त्राीनपि सुरा, नकारद्यैर्वर्णैस्त्रिाभिरभिदधत् तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः, समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ।। 30।।

पदच्छेद

त्रायीं तिस्रो वृत्तीः त्रिभुवनम् अथो त्राीन् अपि सुरान्,           अकार आद्यैः वर्णैः त्रिभिः अभिदधत् तीर्ण-विकृति ।

तुरीयं ते धाम ध्वनिभिः अवरुन्धानम् अणुभिः, समस्तं व्यस्तं त्वां शरणद ! गृणाति ओम् इति पदम् ।। 30।।

श्लोक २९.

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां, स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्।

अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि, प्रियायास्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते ।। 31।।

 

पदच्छेद

भवः शर्वः रुद्रः पशुपतिः अथ उग्रः सह महान्, तथा भीम ईशानौ इति यत् अभिधान-अष्टकम् इदम्।

अमुष्मिन् प्रत्येकं प्रविचरति देव ! श्रुतिः अपि, प्रियाय अस्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते ।। 31।।

श्लोक ३32.

वपुष्प्रादुर्भावादनुमितमिदं जन्मनि पुरा, पुरारे नैवाहं क्वचिदपि भवन्तं प्रणतवान् ।

नमन्मुक्तः सम्प्रत्यतनुरहमग्रे ऽप्यर्नतिमान्, महेश ! क्षन्तव्यं तदिदमपराध द्वयमपि ।। 32।।

पदच्छेद

वपः प्रादुर्भावात् अनुमितं इदम् जन्मनि पुरा, पुरारे नैव अहं क्वचित् अपि भवन्तम् प्रणतवान् ।

नमन् मुक्तः सम्प्रति अतनुः अहम् अग्रे अपि अनतिमान्, महा ईश ! क्षन्तव्यं तत् इदम् अपराध द्वयं अपि ।। 32।।

श्लोक 33३१.

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो, नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो, नमः सर्वस्मै ते तदिदमति सर्वाय च नमः ।। 33।।

पदच्छेद

नमो नेदिष्ठाय प्रिय-दव ! दविष्ठाय च नमो, नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो, नमः सर्वस्मै ते तत् इदम् अति सर्वाय च नमः ।। 33।।

श्लोक 34३२.

बहुलरजसे विश्वोत्पतौ भवाय नमो नमः, प्रबलतमसे तत्संहारे हराय नमो नमः ।

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः, प्रमहसि पदे निस्त्रौगुण्ये शिवाय नमो नमः ।। 34।।

पदच्छेद

बहुल रजसे विश्व-उत्पतौ भवाय नमो नमः, प्रबल तमसे तत् संहारे हराय नमो नमः ।

जन सुखकृते सत्त्व उद्रिक्तौ मृडाय नमो नमः, प्रमहसि पदे निःत्रौगुण्ये शिवाय नमो नमः ।। 34।।

श्लोक ३३.

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं, क्व च तव गुणसीमोल्लङ्घिनी शाश्वत् ऋद्धिः।

इति चकितममन्दीकृत्य मां भक्तिराधाद्, वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।। 35।।

पदच्छेद

कृश-परिणति चेतः क्लेशवश्यं क्व च इदम्, क्व च तव गुण सीमा उल्लङ्घिनी शाश्वत् ऋद्धिः।

इति चकितम् अमन्दी कृत्य मां भक्तिः आधात्, वरद ! चरणयोः ते वाक्य पुष्प उपहारम् ।। 35।।

श्लोक ३36४.

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रो, सुरतरुवरशाखा लेखनी पत्रामुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालम्, तदपि तव गुणानामीश पारं न याति ।। 36।।

पदच्छेद

असित गिरिसमं स्यात् कज्जलं सिन्धुपात्रो, सुर-तरु-वर-शाखा लेखनी पत्राम् उर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालम्, तद् अपि तव गुणानाम् ईश ! पारं न याति ।। 36।।

श्लोक ३५.

असुरसुरमुनीन्द्रैरर्चितस्येन्दु मौले, ग्र्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।

सकलगणवरिष्ठः पुष्पदन्ताभिधानो, रुचिरमलधुवृत्तैः स्तोत्रामेतच्चकार ।। 37।।

पदच्छेद

असुर-सुर-मुनी-इन्द्रैः अर्चितस्य इन्दु मौले ,ग्रथित-गुणमहिम्नः निर्गुणस्य ईश्वरस्य।

सकल-गण-वरिष्ठः पुष्पदन्त अभिधानः, रुचिरम् अलघुवृत्तैः स्तोत्राम् एतत् चकार ।। 37।।

श्लोक ३६.

अहरहरनवद्यं धूर्जटेः स्तोत्रामेतत्,             पठति परमभक्त्या शुद्धचित्तः पुमान् यः।

स भवति शिव लोके रुद्रतुल्यस्तथात्रा, प्रचुरतरधनायुः पुत्रावान् कीर्तिमांश्च ।। 38।।

पदच्छेद

अहः अहः अनवद्यं धूर्जटेः स्तोत्राम् एतत्, पठति परमभक्त्या शुद्धचित्तः पुमान् यः।

स भवति शिवलोके रुद्रतुल्यः तथा अत्रा, प्रचुरतरधन आयुः पुत्रावान् कीर्तिमान् च ।। 38।।

 

 

श्लोक ३७.

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।    

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ।। 39।।

पदच्छेद

महेशात् न अपरः देवः महिम्नः न अपरा स्तुतिः।

अघोरात् न अपरः मन्त्राः न अस्ति तत्त्वं गुरोः परम् ।। 39।।

श्लोक ३८.

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रिया। महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।। 40।।

पदच्छेद

दीक्षा दानं तपः तीर्थं ज्ञानं याग आदिकाः क्रिया। महिम्नः स्तवपाठस्य कलां न अर्हन्ति षोडशीम् ।। 40।।

श्लोक ३९.

कुसुमदशन नामा सर्वगन्धर्वराजः, शिशुशशिधरमौलेर्देवदेवस्य दासः।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्, स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नं ।। 41।।

पदच्छेद

कुसुम दशन नामा सर्वगन्धर्वराजः, शिशु शशिधर मौलेः देवदेवस्य दासः।

स खलु निजमहिम्नः भ्रष्ट एव अस्य रोषात्, स्तवनम् इदम् अकार्षीत् दिव्य-दिव्यं महिम्नः ।। 41।।

श्लोक ४42.

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतू, पठति यदि मनुष्यः प्रा´्जलिर्नान्यचेताः।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः, स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ।। 42।।

पदच्छेद

सुर-वर-मुनि पूज्यं स्वर्ग-मोक्ष-एक हेतुम्, पठति यदि मनुष्यः प्रा´्जलिः न अन्य चेताः।

व्रजति शिव समीपं किन्नरैः स्तूयमानः, स्तवनम् इदम् अमोघं पुष्पदन्त-प्रणीतम् ।। 42।।

श्लोक ४१.

आसमाप्तमिदं स्तोत्रां पुण्यं गन्धर्वभाषितम्। अनौपम्यं मनोहारि शिवम् ईश्वर वर्णनम् ।। 43।।

पदच्छेद

आसमाप्तं इदम् स्तोत्रां पुण्यं गन्धर्व-भाषितम्। अनौपम्यं मनोहारि शिवम् ईश्वर वर्णनम् ।। 43।।

श्लोक ४२.

इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः। अर्पिता तेन देवेशः प्रीयतां में सदाशिव ।। 44।।

पदच्छेद

इति एषा वाङ्मयी पूजा श्रीमत् शंकर पादयोः। अर्पिता तेन देव-ईशः प्रीयतां में सदाशिव ।। 44।।

श्लोक ४३.

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ! यादृशोऽसि महादेव तादृशाय नमो नमः ।। 45।।

पदच्छेद

तव तत्त्वं न जानामि कीदृशः असि महेश्वर ! यादृशः असि महादेव ! तादृशाय नमो नमः ।। 45।।

श्लोक ४४.

एक कालं द्विकालं वा त्रिकालं यः पठेत् नरः। सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। 46।।

पदच्छेद

एक कालं द्विकालं वा त्रिकालं यः पठेत् नरः। सर्व-पाप-विनिर्मुक्तः शिवलोके महीयते ।। 46।।

 

श्लोक ४५.

श्री पुष्पदन्तमुखपंकजनिर्गतेन, स्तोत्रोण किल्विषहरेण हरप्रियेण।

कण्ठस्थितेन पठितेन समाहितेन,               सुप्रीणितो भवति भूतपतिर्महेशः ।। 47।।

पदच्छेद

श्री पुष्पदन्त मुख-पंकज निर्गतेन, स्तोत्रोण किल्विष-हरेण हर-प्रियेण।

कण्ठ स्थितेन पठितेन समाहितेन, सुप्रीणितो भवति भूतपतिः महेशः ।। 47।।

इति श्री शिवमहिम्नःस्तोत्रां सम्पूर्णम् ।।