उपनिषद् पाठ
ॐ ईशावास्यं इदं सर्व यत्किंञ्च जगत्यां जगत्।
तेन त्यक्तेन भुजीथा मा गृधः कास्यस्विद् धनम्।।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत् त्वं पूषन्! अपावृणु सत्य- धर्माय दृष्टये।।
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वायुयानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्ंित विधेम।।
श्रेयश्च प्रेयश्च मनुष्यं एतः
तौ संपरीत्य विविनक्ति धीरः।
श्रेयो ही धीरोऽभिप्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद् वृणीते।।
सर्वे वेदा यत्पदं आमनन्ति
तपांसि सर्वाणि च यद् वदन्ति ।
यद् इच्छन्तो ब्रह्मचर्य चरन्ति
तत् ते पदं संग्रहेण ब्रवीमि ॐ इत्येतत्।।
आत्मानं रथिनं विद्धि शरीरं रथ एव तु।
बुद्धि सारथिं विद्धि मनः प्रगहं एव च ।।
इन्द्रियाणि हयान् आहुर् विषयास्ं तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर् मनीषिणः।।
विज्ञानसारथिर् यस् तु मनः प्रगहवान् नरः।
सोऽध्वनः पारम् आप्नोति तद् विष्णोः परम् पदम् ।।
उतिष्ठत जाग्रत प्राप्य वरान् निबोधत।
क्षुरस्य धारा निशिता दुरत्यया
दुर्ग पथस् तत् कवयो वदन्ति ।।
अग्निर् यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव।
एकस् तथा सर्व -भूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च ।।
वायुर् यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव।
एकस् तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च।।
सूर्यो यथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्मः।
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति।
तम् आत्मस्थं येऽनुपश्यन्ति धरास्
तेषां सुखं शाश्वतं नेतरेषाम्।।
नित्योऽनित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान्।
तमात्मस्थं येऽनुपश्यन्ति धीरास्
तेषां शांतिः शाश्वती नेतरेषाम्।।
न तत्र सूर्यो भाति न चन्द्र तारकं
नेमा विद्युतो भान्ति कुतोऽयं अग्निः?
तमेव भान्तं अनुभाति सर्व
तस्य भासा सर्वमिदं विभाति ।।
तपः श्रद्धे ये ह्मुपवसन्त्यरण्ये
शांता विद्वांसो भैक्षचर्या चरन्तः।
सूर्यद्वारेण ते विर&