Suryaashtakam सूर्याष्टकम्      

सूर्याष्टकम्      

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥

सप्ताश्वरथमारूढं प्रचण्ड कश्यपात्मजम् ।

श्वेतपद्मधरं देवं तं सूर्य प्रणमाम्यहम् ।।

लोहितं रथमारूढं सर्वलोकपितामहम् ।

महापापहरं देवं तं सूर्य प्रणमाम्यहम् ।।

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।

महापापहरं देवं तं सूर्य प्रणमाम्यहम् ।।

बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ।।

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।

एकचक्रधरं देवं तं सूर्य प्रणमाम्यहम् ।।

तं सूर्य जगत्कर्तारं महातेजः प्रदीपनम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ।