Vilbhaashtakam श्री बिल्वाष्टकम्

 

 

              श्री बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।

त्रिजन्मपापसंहारम् - एकबिल्वं शिवार्पणम् ।।

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ॥

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ||

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ||

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ।।

शालग्रामशिलामेकां विप्राणांजातु अर्पयेत् ।।

सोमयज्ञ महापुण्यम् - एकबिल्वं शिवार्पणम् ।।

दन्तिकोटिसहस्त्राणि वाजपेयशतानि च ।

कोटिकन्या महादानम्- एकबिल्वं शिवार्पणम् ||

लक्ष्म्याः स्तनत उत्पन्नं महादेवस्य च प्रियम् ।।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ।।

दर्शनं बिल्ववृक्षस्य स्पर्शनंपापनाशनम् ।।

अघोरपापसंहारम् - एकबिल्वं शिवार्पणम् ।।

मूलतो ब्रह्मरूपाय मध्यातो विष्णुरूपिणे ।।

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ।।

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।।

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ।।

 इति श्रीबिल्वाष्टकं संपूर्णम् ।।