Dwadsjyotirlidagani ॐ द्वादशज्योतिर्लिङ्गानि

ॐ Dwadsjyotirlidagani द्वादशज्योतिर्लिङ्गानि

सौराष्टे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ।। ( 1 )

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।

सेतुबन्धे तु रामेशं नागेशं दारुकावने ।। ( 2 )

वाराणस्यां तु विश्र्वेशं त्र्यम्बकं गौतमीतटे ।

हिमालये तु केदारं घुश्मेशं च शिवालये ।। ( 3 )

एतानि ज्योतिर्लिङ्गानि सायं प्रात पठेन्नरः ।

सप्तजन्मकतं पापं स्मरणेन विनश्यति ।। ( 4 ) .